|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.126. अध्यायः 126
Mahabharata - Drona Parva - Chapter Topics
अर्जुनवृत्तान्तपरिज्ञानाय सात्यकिं प्रेषितवता युधिष्ठिरेण पुनस्तयोर्वृत्तान्तपरिज्ञानाय भीमसेनस्य तत्र गमनचोदना॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-126-0x(4582)(50149)
व्यूहेष्वालोड्यमानेषु पाण्डवानां ततस्ततः।
सुदूरमन्वयुः पार्थाः पाञ्चालाः सह सोमकैः॥ 7-126-1(50150)
वर्तमाने तथा रौद्रे सङ्ग्रामे रोमहर्षणे।
सङ्क्षये जगतस्तीव्रे युगान्त इव भारत॥ 7-126-2(50151)
द्रोणे युधि पराक्रान्ते नर्दमाने मुहुर्मुहुः।
पाञ्चालेषु च क्षीणेषु वध्यमानेषु पाण्डुषु॥ 7-126-3(50152)
नापश्यच्छरणं कञ्चिद्वर्मराजो युधिष्ठिरः।
चिन्तयामास राजेन्द्र कथमेतद्भविष्यति॥ 7-126-4(50153)
ततो विक्ष्य दिशः सर्वाः सव्यसाचिदिदृक्षया।
युधिष्ठिरो ददर्शाथ नैव पार्थं न माधवम्॥ 7-126-5(50154)
सोऽपश्यन्नरशार्दूलं वानरर्षभलक्षणम्।
गाण़्डीवस्य च निर्घोषमशृण्वन्व्यथितेन्द्रियः॥ 7-126-6(50155)
अपश्यन्सात्यकिं चापि वृष्णीनां प्रवरं रथम्।
चिन्तयाभिपरीताङ्गो धर्मराजो युधिष्ठिरः।
नाध्यगच्छत्तदा शान्ति तावपश्यन्नरोत्तमौ॥ 7-126-7(50156)
लोकोपक्रोशभीरुत्वाद्वर्मराजो महामनाः।
अचिन्तयन्महाबाहुः शैनेयस्य रथं प्रति॥ 7-126-8(50157)
पदवीं प्रेषितश्चैव फल्गुनस्य मया रणे।
शैनेयः सात्यकिः सत्यो मित्राणामभयङ्करः॥ 7-126-9(50158)
तदिदं ह्येकमेवासीद्द्द्विधा जातं ममाऽद्य वै।
सात्यकिश्च हि विज्ञेयः पाण्डवश्च धनञ्जयः॥ 7-126-10(50159)
सात्यकिं प्रेषयित्वा तु पाण्डवस्य पदानुगम्।
सात्वतस्यापि कं युद्धे प्रेषयिष्ये पदानुगम्॥ 7-126-11(50160)
परिष्यामि प्रयत्नेन भ्रातुरन्वेषणं यदि।
युयुधानमनन्विष्य लोको मां गर्हयिष्यति॥ 7-126-12(50161)
भ्रातुरन्वेषणं कृत्वा धर्मपुत्रो युधिष्ठिरः।
परित्यजति वार्ष्णेयं सात्यकिं सत्यविक्रमम्॥ 7-126-13(50162)
लोकापवादभीरुत्वात्सोऽहं पार्थं वृकोदरम्।
पदवीं प्रेषयिष्यामि माधवस्य महात्मनः॥ 7-126-14(50163)
यथैव च मम प्रीतिरर्जुने शत्रुमूदने।
तथैव वृष्णिवीरेऽपि सात्वते युद्धदुर्मदे॥ 7-126-15(50164)
अतिभारे नियुक्तश्च मया शैनेयनन्दनः।
स तु मित्रोपरोधेन गौरवात्तु महाबलः।
प्रविष्टो भारतीं सेनां मकरः सागरं यथा॥ 7-126-16(50165)
असौ हि श्रूयते शब्दः शूराणामनिवर्तिनाम्।
मिथः संयुध्यमानानं वृष्णिवीरेण धीमता॥ 7-126-17(50166)
प्राप्तकालं सुबलवन्निश्चितं बहुधा हि मे।
तत्रैव पाण्डवेयस्य भीमसेनस्य धन्विनः।
गमनं रोचते मह्यं यत्र यातौ महारथौ॥ 7-126-18(50167)
न चाप्यसह्यं भीमस्य विद्यते भुवि किञ्चिन॥ 7-126-19(50168)
शक्तो ह्येष रणे यत्तः पृथिव्यां सर्वधन्विनाम्।
स्वबाहुबलमास्थाय प्रतिव्यूहितुमञ्जसा॥ 7-126-20(50169)
यस्य बाहुबलं सर्वे समाश्रित्य महात्मनः।
वनवासान्निवृत्ताः स्म न च युद्धेषु निर्जिताः॥ 7-126-21(50170)
इतो गते भीमसेने सात्वतं प्रति पाण़्डवे।
सनाथौ भवितारौ हि युधि सात्वतफल्गुनौ॥ 7-126-22(50171)
कामं त्वशोचनीयौ तौ रणे सात्वतफल्गुनौ।
रक्षितौ वासुदेवेन स्वयं शस्त्रविशारदौ॥ 7-126-23(50172)
अवश्यं तु मया कार्यमात्मनः शोकनाशनम्।
तस्माद्भीमं नियोक्ष्यामि सात्वतस्य पदानुगम्॥ 7-126-24(50173)
ततः प्रतिकृतं मन्ये विधानं सात्यकिं प्रति॥
एवं निश्चित्य मनसा धर्मपुत्रो युधिष्ठिरः। 7-126-25(50174)
यन्तारमब्रवीद्राजा भीमं प्रति नयस्व माम्॥ 7-126-26(50175)
धर्मराजवचः श्रुत्वा सारथिर्हयकोविदः।
रथं हेमपरिष्कारं भीमान्तिकमुपानयत्॥ 7-126-27(50176)
भीमसेनमनुज्ञाप्य प्राप्तकालमचिन्तयत्।
कश्मलं प्राविशद्राजा बहु तत्र समादिशत्॥ 7-126-28(50177)
स कश्मलसमाविष्टो भीममाहूय पार्थिवः।
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः। 7-126-29(50178)
अब्रवीद्वचनं राजन्कुन्तीपुत्रो युधिष्ठिरः॥
यः सदेवान्सगन्धर्वान्दैत्यांश्चैकरथोऽजयत्। 7-126-30(50179)
तस्य लक्ष्म न पश्यामि भीमसेनानुजस्य ते॥ 7-126-31(50180)
सञ्जय उवाच।
ततोऽब्रवीद्धर्मराजं भीमसेनस्तथागतम्।
नैवाद्राक्षं नचाश्रौषं तव कश्मलमीदृशम्॥ 7-126-31x(4583)
पुरातिदुःखदीर्णानां भवान्गतिरभूद्धि नः।
उत्तिष्ठोत्तिष्ठ राजेन्द्र शाधि किं करवाणि ते॥ 7-126-32(50181)
न ह्यसाध्यमकार्यं वा विद्यते मम मानद।
आज्ञापय कुरुश्रेष्ठ मा च शोके मनः कृथाः॥ 7-126-33(50182)
सञ्जय उवाच। 7-126-34x(4584)
तमब्रवीदश्रुपूर्णः कृष्णसर्प इव श्वसन्।
भीमसेनमिदं वाक्यं प्रम्लानवदनो नृपः॥ 7-126-34(50183)
श्रूयते पाञ्चजन्यस्य यथा शङ्खस्य निस्वनः।
पूरितो वासुदेवेन संरब्धेन यशस्विना॥ 7-126-35(50184)
नूनमद्य हतः शेते तव भ्राता धनञ्जयः।
तस्मिन्विनिहते नूनं युध्यतेऽसौ जनार्दनः॥ 7-126-36(50185)
यस्य सत्ववतो वीर्यं ह्युपजीवन्ति पाण्डवाः।
यं भयेष्वभिगच्छन्ति सहस्राक्षमिवामराः॥ 7-126-37(50186)
स शूरः सैन्धवप्रेप्सुरन्वयाद्भारतीं चमूम्।
तस्य वै गमनं विद्मो भीम नावर्तनं पुनः॥ 7-126-38(50187)
श्यामो युवा गुडाकेशो दर्शनीयो महारथः।
व्यूढोरस्को महाबाहुर्मत्तद्विरदविक्रमः॥ 7-126-39(50188)
चकोरनेत्रस्ताम्रास्यो द्विषतां भयवर्धनः।
`मम प्रियहितार्थं च शक्रलोकादिहागतः॥ 7-126-40(50189)
वृद्धोपसेवी धृतिमान्कृतज्ञः सत्यसङ्गरः।
प्रविष्टो महतीं सेनामपर्यन्तां धनञ्जयः॥ 7-126-41(50190)
प्रविष्टे च चमूं घोरामर्जुने शत्रुनाशने।
प्रेषितः सात्वतो वीरः फल्गुनस्य पदानुगः॥ 7-126-42(50191)
तस्याभिगमनं जाने भीम नावर्तनं पुनः'।
तदिदं मम भद्रं ते शोकस्थानमरिन्दम॥ 7-126-43(50192)
अर्जुनार्थे महाबाहो सात्वतस्य च कारणात्।
वर्धते हविषेवाग्निरिध्यमानः पुनः पुनः॥ 7-126-44(50193)
तस्य लक्ष्म न पश्यामि तेन विन्दामि कश्मलम्।
तं विद्धि पुरुषव्याघ्रं सात्वतं च महारथम्॥ 7-126-45(50194)
स तं महारथं पश्चादनुयातस्तवानुजम्।
तमपश्यन्महाबाहुमदं विन्दामि कश्मलम्॥ 7-126-46(50195)
`अथैनं पुनराचक्ष्व लोहिताक्षं सकेशवम्।
दृष्ट्वा कुशलिनं पार्थं सैन्धवान्ते ससात्यकिम्॥ 7-126-47(50196)
संविदं मम कुर्यास्त्वं सिंहनादेन पाण्डव॥ 7-126-48(50197)
नूनं विनिहतः शूरः सव्यासाची परन्तप'।
पार्थे तस्मिन्हते चैव युध्यते गरुडध्वजः॥ 7-126-49(50198)
सहयो नास्य वै कश्चित्तेन विन्दामि कश्मलम्।
तस्मात्कृष्णो रणे नूनं युध्यते युद्धकोविदः॥ 7-126-50(50199)
न हि मे शुध्यते भावस्तयोरेव परन्तप।
स तत्र गच्छ कौन्तेय यत्र यातो धनञ्जयः॥ 7-126-51(50200)
सात्यकिश्च महावीर्यः कर्तव्यं यदि मन्यसे।
वचनं मम धर्मज्ञ भ्राता ज्येष्ठो भवामि ते॥ 7-126-52(50201)
न मेऽर्जुनस्तथा ज्ञेयो ज्ञातव्यः सात्यकिर्यथा॥ 7-126-53(50202)
चिकीर्षुर्मत्प्रियं पार्थ स यातः सव्यसाचिनः।
पदवीं दुर्गमां घोरामगम्यामकृतात्मभिः॥ 7-126-54(50203)
दृष्ट्वा कुशलिनौ कृष्णौ सात्वतं चैव सात्यकिम्।
संविदं चैव कुर्यास्त्वं सिंहनादेन पाण़्डव॥ ॥ 7-126-55(50204)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे षड्विंशत्यधिकशततमोऽध्यायः॥ 126 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-126-6 वानरर्षभलक्षणं वानरप्रधानध्वजम्। वरवानरकेतनमिति पाठो वा॥ 5-126-9 सत्यो दृढप्रतिज्ञः॥ 5-126-25 सात्यकिम्प्रति प्रतिविधानं कृतमित्यन्वयः॥ 5-126-40 चकोरनेत्रो रक्तान्तायतनयनः। ताम्रास्यो रक्तगौरमुखः॥ 5-126-126 षड्विंशत्यधिकशततमोऽध्यायः॥ 126 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|